Sukta 9.64
केतुं कृण्वन्दिवस्परि विश्वा रूपाभ्यर्षसि । समुद्रः सोम पिन्वसे ॥
के॒तुं कृ॒ण्वन्दि॒वस्परि॒ विश्वा॑ रू॒पाभ्य॑र्षसि । स॒मु॒द्रः सो॑म पिन्वसे ॥
ketúṃ kṛṇván divás pári víśvā rūpā́bhy ārṣasi | samudráḥ soma pinvase ||
Creating a banner of light from beyond the heaven, thou flowest over all forms. O Soma, thou swellest into a vastness like the ocean—an immeasurable wideness of delight and being.
के॒तुम् । कृ॒ण्वन् । दि॒वः । परि॑ । विश्वा॑ । रू॒पा । अ॒भि । आ॒र्ष॒सि॒ । स॒मु॒द्रः । सो॒म॒ । पि॒न्व॒से॒ ॥केतुम् । कृण्वन् । दिवः । परि । विश्वा । रूपा । अभि । आर्षसि । समुद्रः । सोम । पिन्वसे ॥ketum | kṛṇvan | divaḥ | pari | viśvā | rūpā | abhi | ārṣasi | samudraḥ | soma | pinvase