Sukta 9.64
पवमानस्य विश्ववित्प्र ते सर्गा असृक्षत । सूर्यस्येव न रश्मयः ॥
पव॑मानस्य विश्ववि॒त्प्र ते॒ सर्गा॑ असृक्षत । सूर्य॑स्येव॒ न र॒श्मय॑: ॥
pávamānasya viśva-vít prá te sárgā asṛkṣata | sū́ryasyeva ná raśmáyaḥ ||
O all-finding Pavamāna, thy streams are released forth—like the rays of the Sun—carrying everywhere the discovery of light and the unveiling of the hidden.
पव॑मानस्य । वि॒श्व॒ऽवि॒त् । प्र । ते॒ । सर्गाः॑ । अ॒सृ॒क्ष॒त॒ । सूर्य॑स्यऽइव । न । र॒श्मयः॑ ॥पवमानस्य । विश्ववित् । प्र । ते । सर्गाः । असृक्षत । सूर्यस्यइव । न । रश्मयः ॥pavamānasya | viśva-vit | pra | te | sargāḥ | asṛkṣata | sūryasya-iva | na | raśmayaḥ