Sukta 9.64
शुम्भमाना ऋतायुभिर्मृज्यमाना गभस्त्योः । पवन्ते वारे अव्यये ॥
शु॒म्भमा॑ना ऋता॒युभि॑र्मृ॒ज्यमा॑ना॒ गभ॑स्त्योः । पव॑न्ते॒ वारे॑ अ॒व्यये॑ ॥
śumbhámānā ṛtāyúbhir mṛjyámānā gábhastyoḥ | pavante vā́re avyáye ||
Adorning themselves with the seekers of the Ṛta, cleansed in the hands’ grasp, they purify and flow in the imperishable current—Soma-streams becoming fit vessels of the Truth.
शु॒म्भमा॑नाः । ऋ॒त॒युऽभिः॑ । मृ॒ज्यमा॑नाः । गभ॑स्त्योः । पव॑न्ते । वारे॑ । अ॒व्यये॑ ॥शुम्भमानाः । ऋतयुभिः । मृज्यमानाः । गभस्त्योः । पवन्ते । वारे । अव्यये ॥śumbhamānāḥ | ṛtayu-bhiḥ | mṛjyamānāḥ | gabhastyoḥ | pavante | vāre | avyaye