Sukta 9.64
असृक्षत प्र वाजिनो गव्या सोमासो अश्वया । शुक्रासो वीरयाशवः ॥
असृ॑क्षत॒ प्र वा॒जिनो॑ ग॒व्या सोमा॑सो अश्व॒या । शु॒क्रासो॑ वीर॒याशव॑: ॥
asṛ́kṣata prá vājíno gavyā́ sómāso aśvayā́ | śukrā́so vīrayā́śavaḥ ||
Forth they have flowed, the puissant Soma-streams, rich in the plenitudes (vāja) of the luminous herds and the swift powers of progress; shining, impetuous, bearing the heroic force within.
असृ॑क्षत । प्र । वा॒जिनः॑ । ग॒व्या । सोमा॑सः । अ॒श्व॒ऽया । शु॒क्रासः॑ । वी॒र॒ऽया । आ॒शवः॑ ॥असृक्षत । प्र । वाजिनः । गव्या । सोमासः । अश्वया । शुक्रासः । वीरया । आशवः ॥asṛkṣata | pra | vājinaḥ | gavyā | somāsaḥ | aśva-yā | śukrāsaḥ | vīra-yā | āśavaḥ