Sukta 9.64
अश्वो न चक्रदो वृषा सं गा इन्दो समर्वतः । वि नो राये दुरो वृधि ॥
अश्वो॒ न च॑क्रदो॒ वृषा॒ सं गा इ॑न्दो॒ समर्व॑तः । वि नो॑ रा॒ये दुरो॑ वृधि ॥
aśvó na cakrado vṛ́ṣā sáṃ gā́ indo sáṃ árvataḥ | ví no rāyé dúro vṛdhi ||
Like a steed that neighs in power, O Bull Indu, gather together the rays (cows of light) and the energies that bear us onward. Open wide for us the doors of plenitude of being.
अश्वः॑ । न । च॒क्र॒दः॒ । वृषा॑ । सम् । गाः । इ॒न्दो॒ इति॑ । सम् । अर्व॑तः । वि । नः॒ । रा॒ये । दुरः॑ । वृ॒धि॒ ॥अश्वः । न । चक्रदः । वृषा । सम् । गाः । इन्दो इति । सम् । अर्वतः । वि । नः । राये । दुरः । वृधि ॥aśvaḥ | na | cakradaḥ | vṛṣā | sam | gāḥ | indo iti | sam | arvataḥ | vi | naḥ | rāye | duraḥ | vṛdhi