Sukta 9.64
वृष्णस्ते वृष्ण्यं शवो वृषा वनं वृषा मदः । सत्यं वृषन्वृषेदसि ॥
वृष्ण॑स्ते॒ वृष्ण्यं॒ शवो॒ वृषा॒ वनं॒ वृषा॒ मद॑: । स॒त्यं वृ॑ष॒न्वृषेद॑सि ॥
vṛ́ṣṇas te vṛ́ṣṇyaṃ śávo vṛ́ṣā vánaṃ vṛ́ṣā mádaḥ | satyáṃ vṛṣan vṛ́ṣā íd asi ||
Thy strength is the strength of the Bull; thy force is a bull’s victorious delight, thy ecstasy a bull’s outpouring. O Bull, thou art indeed the Truth in its puissant affirmation.
वृष्णः॑ । ते॒ । वृष्ण्य॑म् । शवः॑ । वृषा॑ । वन॑म् । वृषा॑ । मदः॑ । स॒त्यम् । वृ॒ष॒न् । वृषा॑ । इत् । अ॒सि॒ ॥वृष्णः । ते । वृष्ण्यम् । शवः । वृषा । वनम् । वृषा । मदः । सत्यम् । वृषन् । वृषा । इत् । असि ॥vṛṣṇaḥ | te | vṛṣṇyam | śavaḥ | vṛṣā | vanam | vṛṣā | madaḥ | satyam | vṛṣan | vṛṣā | it | asi