Sukta 9.64
हिन्वानो हेतृभिर्यत आ वाजं वाज्यक्रमीत् । सीदन्तो वनुषो यथा ॥
हि॒न्वा॒नो हे॒तृभि॑र्य॒त आ वाजं॑ वा॒ज्य॑क्रमीत् । सीद॑न्तो व॒नुषो॑ यथा ॥
hinvānáḥ hetṛ́bhir yatá ā́ vā́jaṃ vājí akramīt | sīdánto vanúṣo yáthā ||
Urged on by the impellers, he advances and steps toward the Vāja—plenitude of force and victory; settling down like seekers at their aim, the Soma-currents take their seat in the right place within.
हि॒न्वा॒नः । हे॒तृऽभिः॑ । य॒तः । आ । वाज॑म् । वा॒जी । अ॒क्र॒मी॒त् । सीद॑न्तः । व॒नुषः॑ । य॒था॒ ॥हिन्वानः । हेतृभिः । यतः । आ । वाजम् । वाजी । अक्रमीत् । सीदन्तः । वनुषः । यथा ॥hinvānaḥ | hetṛ-bhiḥ | yataḥ | ā | vājam | vājī | akramīt | sīdantaḥ | vanuṣaḥ | yathā