Sukta 9.64
ऋधक्सोम स्वस्तये संजग्मानो दिवः कविः । पवस्व सूर्यो दृशे ॥
ऋ॒धक्सो॑म स्व॒स्तये॑ संजग्मा॒नो दि॒वः क॒विः । पव॑स्व॒ सूर्यो॑ दृ॒शे ॥
ṛdhák soma svastáye saṃjagmānáḥ diváḥ kavíḥ | páv asva sū́ryo dṛśé ||
O Soma, for our well-being, coming together as the seer from heaven, flow purified—become a Sun for the vision, a light that makes the inner sight true.
ऋ॒धक् । सो॒म॒ । स्व॒स्तये॑ । स॒म्ऽज॒ग्मा॒नः । दि॒वः । क॒विः । पव॑स्व । सूर्यः॑ । दृ॒शे ॥ऋधक् । सोम । स्वस्तये । सम्जग्मानः । दिवः । कविः । पवस्व । सूर्यः । दृशे ॥ṛdhak | soma | svastaye | sam-jagmānaḥ | divaḥ | kaviḥ | pavasva | sūryaḥ | dṛśe