Sukta 9.64
उतो सहस्रभर्णसं वाचं सोम मखस्युवम् । पुनान इन्दवा भर ॥
उ॒तो स॒हस्र॑भर्णसं॒ वाचं॑ सोम मख॒स्युव॑म् । पु॒ना॒न इ॑न्द॒वा भ॑र ॥
utó sahásrabharṇasaṃ vā́caṃ soma makhasyúvam | punāná índavā́ bhara ||
And bring too, O Soma, the Word that bears a thousand strengths, the speech that is eager for the sacrifice; in thy purification, O Indu, carry it into us.
उ॒तो इति॑ । स॒हस्र॑ऽभर्णसम् । वाच॑म् । सो॒म॒ । म॒ख॒स्युव॑म् । पु॒ना॒नः । इ॒न्दो॒ इति॑ । आ । भ॒र॒ ॥उतो इति । सहस्रभर्णसम् । वाचम् । सोम । मखस्युवम् । पुनानः । इन्दो इति । आ । भर ॥uto iti | sahasra-bharṇasam | vācam | soma | makhasyuvam | punānaḥ | indo iti | ā | bhara