Sukta 9.64
त्वं सोम विपश्चितं पुनानो वाचमिष्यसि । इन्दो सहस्रभर्णसम् ॥
त्वं सो॑म विप॒श्चितं॑ पुना॒नो वाच॑मिष्यसि । इन्दो॑ स॒हस्र॑भर्णसम् ॥
tváṃ soma vipaścítaṃ punānáḥ vā́cam iṣyasi | índo sahásrabharṇasam ||
Thou, O Soma, in thy purification, impellest the Word that is full of discerning light; O Indu, bring forward the speech that bears a thousand strengths—mantra that carries plenitude of force.
त्वम् । सो॒म॒ । वि॒पः॒ऽचित॑म् । पु॒ना॒नः । वाच॑म् । इ॒ष्य॒सि॒ । इन्दो॒ इति॑ । स॒हस्र॑ऽभर्णसम् ॥त्वम् । सोम । विपःचितम् । पुनानः । वाचम् । इष्यसि । इन्दो इति । सहस्रभर्णसम् ॥tvam | soma | vipaḥ-citam | punānaḥ | vācam | iṣyasi | indo iti | sahasra-bharṇasam