Sukta 9.64
तं त्वा विप्रा वचोविदः परि ष्कृण्वन्ति वेधसः । सं त्वा मृजन्त्यायवः ॥
तं त्वा॒ विप्रा॑ वचो॒विद॒: परि॑ ष्कृण्वन्ति वे॒धस॑: । सं त्वा॑ मृजन्त्या॒यव॑: ॥
táṃ tvā víprā vacovídaḥ pári ṣkṛṇvanti vedhásaḥ | sáṃ tvā mṛjanty āyávaḥ ||
The inspired seers, knowers of the Word, fashion thee all around; the wise builders cleanse thee wholly—O Soma—so that thy light may be made fit for the inner offering.
तम् । त्वा॒ । विप्राः॑ । व॒चः॒ऽविदः॑ । परि॑ । कृ॒ण्व॒न्ति॒ । वे॒धसः॑ । सम् । त्वा॒ । मृ॒ज॒न्ति॒ । आ॒यवः॑ ॥तम् । त्वा । विप्राः । वचःविदः । परि । कृण्वन्ति । वेधसः । सम् । त्वा । मृजन्ति । आयवः ॥tam | tvā | viprāḥ | vacaḥ-vidaḥ | pari | kṛṇvanti | vedhasaḥ | sam | tvā | mṛjanti | āyavaḥ