Sukta 9.64
आ यद्योनिं हिरण्ययमाशुॠतस्य सीदति । जहात्यप्रचेतसः ॥
आ यद्योनिं॑ हिर॒ण्यय॑मा॒शुॠ॒तस्य॒ सीद॑ति । जहा॒त्यप्र॑चेतसः ॥
ā́ yád yóniṃ hiraṇyáyam āśúr ṛtásya sī́dati | jahā́ty ápra-cetasaḥ ||
When the swift one sits in the golden womb of Ṛta, he casts away the unawakened states of consciousness.
आ । यत् । योनि॑म् । हि॒र॒ण्यय॑म् । आ॒शुः । ऋ॒तस्य॑ । सीद॑ति । जहा॑ति । अप्र॑ऽचेतसः ॥आ । यत् । योनिम् । हिरण्ययम् । आशुः । ऋतस्य । सीदति । जहाति । अप्रचेतसः ॥ā | yat | yonim | hiraṇyayam | āśuḥ | ṛtasya | sīdati | jahāti | apra-cetasaḥ