Sukta 9.64
मिमाति वह्निरेतशः पदं युजान ऋक्वभिः । प्र यत्समुद्र आहितः ॥
मिमा॑ति॒ वह्नि॒रेत॑शः प॒दं यु॑जा॒न ऋक्व॑भिः । प्र यत्स॑मु॒द्र आहि॑तः ॥
mímāti váhnir étaśaḥ padáṃ yujāná ṛkvá-bhiḥ | prá yát samudrá ā́hitaḥ ||
The swift carrier measures out the path, yoking himself with the seers’ hymns, when he is set forth into the ocean-vast.
मिमा॑ति । वह्निः॑ । एत॑शः । प॒दम् । यु॒जा॒नः । ऋक्व॑ऽभिः । प्र । यत् । स॒मु॒द्रे । आऽहि॑तः ॥मिमाति । वह्निः । एतशः । पदम् । युजानः । ऋक्वभिः । प्र । यत् । समुद्रे । आहितः ॥mimāti | vahniḥ | etaśaḥ | padam | yujānaḥ | ṛkva-bhiḥ | pra | yat | samudre | āhitaḥ