Sukta 9.64
वृषा सोम द्युमाँ असि वृषा देव वृषव्रतः । वृषा धर्माणि दधिषे ॥
वृषा॑ सोम द्यु॒माँ अ॑सि॒ वृषा॑ देव॒ वृष॑व्रतः । वृषा॒ धर्मा॑णि दधिषे ॥
vṛ́ṣā soma dyu-mā́m̆ asi vṛ́ṣā deva vṛ́ṣa-vrataḥ | vṛ́ṣā dhármāṇi dadhiṣe ||
O Soma, a Bull of luminous power thou art; a Bull, O god, with the steadfast will of the Bull. As a Bull thou upholdest and establishest the laws of the Truth in us.
वृषा॑ । सो॒म॒ । द्यु॒ऽमान् । अ॒सि॒ । वृषा॑ । दे॒व॒ । वृष॑ऽव्रतः । वृषा॑ । धर्मा॑णि । द॒धि॒षे॒ ॥वृषा । सोम । द्युमान् । असि । वृषा । देव । वृषव्रतः । वृषा । धर्माणि । दधिषे ॥vṛṣā | soma | dyu-mān | asi | vṛṣā | deva | vṛṣa-vrataḥ | vṛṣā | dharmāṇi | dadhiṣe