Sukta 9.64
पुनानो देववीतय इन्द्रस्य याहि निष्कृतम् । द्युतानो वाजिभिर्यतः ॥
पु॒ना॒नो दे॒ववी॑तय॒ इन्द्र॑स्य याहि निष्कृ॒तम् । द्यु॒ता॒नो वा॒जिभि॑र्य॒तः ॥
punā́nō deva-vītáya índrasya yāhi níṣkṛtam | dyutā́nō vājíbhir yatáḥ ||
Purifying thyself for the gods’ glad acceptance, go to Indra’s appointed place of offering; shining forth, arrive with the plenitudes of force.
पु॒ना॒नः । दे॒वऽवी॑तये॑ । इन्द्र॑स्य । या॒हि॒ । निः॒ऽकृ॒तम् । द्यु॒ता॒नः । वा॒जिऽभिः॑ । य॒तः ॥पुनानः । देववीतये । इन्द्रस्य । याहि । निःकृतम् । द्युतानः । वाजिभिः । यतः ॥punānaḥ | deva-vītaye | indrasya | yāhi | niḥ-kṛtam | dyutānaḥ | vāji-bhiḥ | yataḥ