Sukta 9.64
पुनानो वरिवस्कृध्यूर्जं जनाय गिर्वणः । हरे सृजान आशिरम् ॥
पु॒ना॒नो वरि॑वस्कृ॒ध्यूर्जं॒ जना॑य गिर्वणः । हरे॑ सृजा॒न आ॒शिर॑म् ॥
punā́nō várivaskṛdhy ūrjáṃ jánāya girvaṇaḥ | háre sṛjāná āśíram ||
Purifying thyself, create for us wide room and bring the soul’s strength for the people, O lord of the chant; pouring forth, O tawny one, the draught of the inner felicity.
पु॒ना॒नः । वरि॑वः । कृ॒धि॒ । ऊर्ज॑म् । जना॑य । गि॒र्व॒णः॒ । हरे॑ । सृ॒जा॒नः । आ॒ऽशिर॑म् ॥पुनानः । वरिवः । कृधि । ऊर्जम् । जनाय । गिर्वणः । हरे । सृजानः । आशिरम् ॥punānaḥ | varivaḥ | kṛdhi | ūrjam | janāya | girvaṇaḥ | hare | sṛjānaḥ | āśiram