Sukta 9.64
इषे पवस्व धारया मृज्यमानो मनीषिभिः । इन्दो रुचाभि गा इहि ॥
इ॒षे प॑वस्व॒ धार॑या मृ॒ज्यमा॑नो मनी॒षिभि॑: । इन्दो॑ रु॒चाभि गा इ॑हि ॥
iṣé pavasva dhā́rayā mṛ́jyamāno manīṣí-bhiḥ | índo rucā́bhi gā́ íhi ||
Flow for our increase in plenitude, O Soma, in a steady stream, being cleansed by the thinkers; with thy lights go toward the rays of illumination (the ‘cows’) and enter them.
इ॒षे । प॒व॒स्व॒ । धार॑या । मृ॒ज्यमा॑नः । म॒नी॒षिऽभिः॑ । इन्दो॒ इति॑ । रु॒चा । अ॒भि । गाः । इ॒हि॒ ॥इषे । पवस्व । धारया । मृज्यमानः । मनीषिभिः । इन्दो इति । रुचा । अभि । गाः । इहि ॥iṣe | pavasva | dhārayā | mṛjyamānaḥ | manīṣi-bhiḥ | indo iti | rucā | abhi | gāḥ | ihi