Sukta 9.63
उत त्या हरितो दश सूरो अयुक्त यातवे । इन्दुरिन्द्र इति ब्रुवन् ॥
उ॒त त्या ह॒रितो॒ दश॒ सूरो॑ अयुक्त॒ यात॑वे । इन्दु॒रिन्द्र॒ इति॑ ब्रु॒वन् ॥
utá tyā́ hárīto dáśa sū́ro ayukta yā́tave | índur índra íti bruván ||
And the luminous one has yoked the ten tawny steeds for the journey; the bright drop goes forth declaring, ‘I am Indra’—the delight that becomes the victorious power in us.
उ॒त । त्याः । ह॒रितः॑ । दश॑ । सूरः॑ । अ॒यु॒क्त॒ । यात॑वे । इन्दुः॑ । इन्द्रः॑ । इति॑ । ब्रु॒वन् ॥उत । त्याः । हरितः । दश । सूरः । अयुक्त । यातवे । इन्दुः । इन्द्रः । इति । ब्रुवन् ॥uta | tyāḥ | haritaḥ | daśa | sūraḥ | ayukta | yātave | induḥ | indraḥ | iti | bruvan