Sukta 9.63
अया पवस्व धारया यया सूर्यमरोचयः । हिन्वानो मानुषीरपः ॥
अ॒या प॑वस्व॒ धार॑या॒ यया॒ सूर्य॒मरो॑चयः । हि॒न्वा॒नो मानु॑षीर॒पः ॥
ayā́ pavasva dhā́rayā yayā́ sū́ryam árocayaḥ | hinvānáḥ mā́nuṣīr apáḥ ||
By this stream flow, O Soma—the stream by which thou makest the Sun to shine; driving forward the human waters, thou settest in motion the currents of our nature toward illumination.
अ॒या । प॒व॒स्व॒ । धार॑या । यया॑ । सूर्य॑म् । अरो॑चयः । हि॒न्वा॒नः । मानु॑षीः । अ॒पः ॥अया । पवस्व । धारया । यया । सूर्यम् । अरोचयः । हिन्वानः । मानुषीः । अपः ॥ayā | pavasva | dhārayā | yayā | sūryam | arocayaḥ | hinvānaḥ | mānuṣīḥ | apaḥ