Sukta 9.63
एते असृग्रमाशवोऽति ह्वरांसि बभ्रवः । सोमा ऋतस्य धारया ॥
ए॒ते अ॑सृग्रमा॒शवोऽति॒ ह्वरां॑सि ब॒भ्रव॑: । सोमा॑ ऋ॒तस्य॒ धार॑या ॥
eté asṛgram āśávo ’ti hvárāṃsi babhrávaḥ | sómā ṛtásya dhāráyā ||
These tawny, swift Somas have rushed forth beyond the crookednesses; they move in the stream of Ṛta—along the right-flowing current of truth-order.
ए॒ते । अ॒सृ॒ग्र॒म् । आ॒शवः॑ । अति॑ । ह्वरां॑सि । ब॒भ्रवः॑ । सोमाः॑ । ऋ॒तस्य॑ । धार॑या ॥एते । असृग्रम् । आशवः । अति । ह्वरांसि । बभ्रवः । सोमाः । ऋतस्य । धारया ॥ete | asṛgram | āśavaḥ | ati | hvarāṃsi | babhravaḥ | somāḥ | ṛtasya | dhārayā