Sukta 9.63
सुत इन्द्राय विष्णवे सोमः कलशे अक्षरत् । मधुमाँ अस्तु वायवे ॥
सु॒त इन्द्रा॑य॒ विष्ण॑वे॒ सोम॑: क॒लशे॑ अक्षरत् । मधु॑माँ अस्तु वा॒यवे॑ ॥
sutá indrā́ya víṣṇave sómaḥ kalaśé akṣarat | mádhu-māṃ astu vā́yave ||
Pressed out, Soma has streamed into the jar for Indra and for Vishnu; may he be honey-rich for Vayu—delight made sweet and fit for the life-breath’s wide movement.
सु॒तः । इन्द्रा॑य । विष्ण॑वे । सोमः॑ । क॒लशे॑ । अ॒क्ष॒र॒त् । मधु॑ऽमान् । अ॒स्तु॒ । वा॒यवे॑ ॥सुतः । इन्द्राय । विष्णवे । सोमः । कलशे । अक्षरत् । मधुमान् । अस्तु । वायवे ॥sutaḥ | indrāya | viṣṇave | somaḥ | kalaśe | akṣarat | madhu-mān | astu | vāyave