Sukta 9.63
पुनानः सोम धारयेन्दो विश्वा अप स्रिधः । जहि रक्षांसि सुक्रतो ॥
पु॒ना॒नः सो॑म॒ धार॒येन्दो॒ विश्वा॒ अप॒ स्रिध॑: । ज॒हि रक्षां॑सि सुक्रतो ॥
punānáḥ soma dhā́rayéndo víśvā apa srídhaḥ | jahí rákṣāṃsi sukrato ||
Purifying yourself, O Soma, in the streaming current, O Indu, drive away all crookedness; slay the powers of darkness, O strong in right action.
पु॒ना॒नः । सो॒म॒ धार॑या । इन्दो॒ इति॑ । विश्वा॑ । अप॑ । स्रिधः॑ । ज॒हि । रक्षां॑सि । सु॒क्र॒तो॒ इति॑ सुऽक्रतो ॥पुनानः । सोम धारया । इन्दो इति । विश्वा । अप । स्रिधः । जहि । रक्षांसि । सुक्रतो इति सुक्रतो ॥punānaḥ | soma | dhārayā | indo iti | viśvā | apa | sridhaḥ | jahi | rakṣāṃsi | sukrato itisu-krato