Sukta 9.63
अपघ्नन्त्सोम रक्षसोऽभ्यर्ष कनिक्रदत् । द्युमन्तं शुष्ममुत्तमम् ॥
अ॒प॒घ्नन्त्सो॑म र॒क्षसो॒ऽभ्य॑र्ष॒ कनि॑क्रदत् । द्यु॒मन्तं॒ शुष्म॑मुत्त॒मम् ॥
apághnan soma rákṣaso 'bhyàrṣa kánikradat | dyumántaṃ śúṣmam uttamám ||
Smiting the darkness-forces, O Soma, surge forth with a cry; bring the most supreme, radiant power of force.
अ॒प॒ऽघ्नन् । सो॒म॒ । र॒क्षशः॑ । अ॒भि । आ॒र्ष॒ । कनि॑क्रदत् । द्यु॒ऽमन्त॑म् । शुष्म॑म् । उ॒त्ऽत॒मम् ॥अपघ्नन् । सोम । रक्षशः । अभि । आर्ष । कनिक्रदत् । द्युमन्तम् । शुष्मम् । उत्तमम् ॥apa-ghnan | soma | rakṣasaḥ | abhi | ārṣa | kanikradat | dyu-mantam | śuṣmam | ut-tamam