Sukta 9.63
पवमानास आशवः शुभ्रा असृग्रमिन्दवः । घ्नन्तो विश्वा अप द्विषः ॥
पव॑मानास आ॒शव॑: शु॒भ्रा अ॑सृग्र॒मिन्द॑वः । घ्नन्तो॒ विश्वा॒ अप॒ द्विष॑: ॥
pávamānāsa āśávaḥ śubhrā́ asṛgram índavaḥ | ghnánto víśvā apa dvíṣaḥ ||
The purifying, swift, radiant drops have streamed forth, striking away all hatreds and hostile forces.
पव॑मानासः । आ॒शवः॑ । शु॒भ्राः । अ॒सृ॒ग्र॒म् । इन्द॑वः । घ्नन्तः॑ । विश्वाः॑ । अप॑ । द्विषः॑ ॥पवमानासः । आशवः । शुभ्राः । असृग्रम् । इन्दवः । घ्नन्तः । विश्वाः । अप । द्विषः ॥pavamānāsaḥ | āśavaḥ | śubhrāḥ | asṛgram | indavaḥ | ghnantaḥ | viśvāḥ | apa | dviṣaḥ