Sukta 9.63
सुता इन्द्राय वज्रिणे सोमासो दध्याशिरः । पवित्रमत्यक्षरन् ॥
सु॒ता इन्द्रा॑य व॒ज्रिणे॒ सोमा॑सो॒ दध्या॑शिरः । प॒वित्र॒मत्य॑क्षरन् ॥
sutā́ indrā́ya vajríṇe somā́so dádhyāśiraḥ | pavítram áty akṣaran ||
Pressed Somās, blended with curd, have flowed beyond the filter for Indra the wielder of the thunder-force, to feed in him the victorious might within us.
सु॒ताः । इन्द्रा॑य । व॒ज्रिणे॑ । सोमा॑सः । दधि॑ऽआशिरः । प॒वित्र॑म् । अति॑ । अ॒क्ष॒र॒न् ॥सुताः । इन्द्राय । वज्रिणे । सोमासः । दधिआशिरः । पवित्रम् । अति । अक्षरन् ॥sutāḥ | indrāya | vajriṇe | somāsaḥ | dadhi-āśiraḥ | pavitram | ati | akṣaran