Sukta 9.63
एते धामान्यार्या शुक्रा ऋतस्य धारया । वाजं गोमन्तमक्षरन् ॥
ए॒ते धामा॒न्यार्या॑ शु॒क्रा ऋ॒तस्य॒ धार॑या । वाजं॒ गोम॑न्तमक्षरन् ॥
eté dhā́māny ā́ryā śukrā́ ṛtásya dhā́rayā | vā́jaṃ gómantam akṣaran ||
These noble, bright stations of being have flowed out by the stream of Ṛta, pouring forth the Vāja—the plenitude of force—rich with rays of illumined knowledge.
ए॒ते । धामा॑नि । आर्या॑ । शु॒क्राः । ऋ॒तस्य॑ । धार॑या । वाज॑म् । गोऽम॑न्तम् । अ॒क्ष॒र॒न् ॥एते । धामानि । आर्या । शुक्राः । ऋतस्य । धारया । वाजम् । गोमन्तम् । अक्षरन् ॥ete | dhāmāni | āryā | śukrāḥ | ṛtasya | dhārayā | vājam | go-mantam | akṣaran