Sukta 9.62
त्वमिन्दो परि स्रव स्वादिष्ठो अङ्गिरोभ्यः । वरिवोविद्घृतं पयः ॥
त्वमि॑न्दो॒ परि॑ स्रव॒ स्वादि॑ष्ठो॒ अङ्गि॑रोभ्यः । व॒रि॒वो॒विद्घृ॒तं पय॑: ॥
tvám indo pári srava svā́diṣṭho áṅgirobhyaḥ | várīvo vid ghṛtáṃ páyaḥ ||
O Indu, flow all around, most sweet, for the Angirases; find for us the wide space, the ghee and the milk—rich essences of luminous nourishment.
त्वम् । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ । स्वादि॑ष्ठः । अङ्गि॑रःऽभ्यः । व॒रि॒वः॒ऽवित् । घृ॒तम् । पयः॑ ॥त्वम् । इन्दो इति । परि । स्रव । स्वादिष्ठः । अङ्गिरःभ्यः । वरिवःवित् । घृतम् । पयः ॥tvam | indo iti | pari | srava | svādiṣṭhaḥ | aṅgiraḥ-bhyaḥ | varivaḥ-vit | ghṛtam | payaḥ