Sukta 9.62
अयं विचर्षणिर्हितः पवमानः स चेतति । हिन्वान आप्यं बृहत् ॥
अ॒यं विच॑र्षणिर्हि॒तः पव॑मान॒: स चे॑तति । हि॒न्वा॒न आप्यं॑ बृ॒हत् ॥
ayáṃ vicárṣaṇir hitáḥ pávamānaḥ sá cetati | hinvāná ā́pyaṃ bṛhát ||
This one, the wide-seeing, is set in place as Pavamāna; he awakens to consciousness, impelling the vast waters of the being—the great depth—towards right expansion.
अ॒यम् । विऽच॑र्षणिः । हि॒तः । पव॑मानः । सः । चे॒त॒ति॒ । हि॒न्वा॒नः । आप्य॑म् । बृ॒हत् ॥अयम् । विचर्षणिः । हितः । पवमानः । सः । चेतति । हिन्वानः । आप्यम् । बृहत् ॥ayam | vi-carṣaṇiḥ | hitaḥ | pavamānaḥ | saḥ | cetati | hinvānaḥ | āpyam | bṛhat