Sukta 9.62
यास्ते धारा मधुश्चुतोऽसृग्रमिन्द ऊतये । ताभिः पवित्रमासदः ॥
यास्ते॒ धारा॑ मधु॒श्चुतोऽसृ॑ग्रमिन्द ऊ॒तये॑ । ताभि॑: प॒वित्र॒मास॑दः ॥
yā́s te dhā́rā madhuścúto ’sṛgram inda ūtáye | tā́bhiḥ pavítram ā́sadaḥ ||
Those streams of yours that drip sweetness—O Indu—have been released for our safeguarding; by them you take your seat upon the purifier, establishing the right flow of help.
याः । ते॒ । धाराः॑ । म॒धु॒ऽश्चुतः॑ । असृ॑ग्रम् । इ॒न्दो॒ इति॑ । ऊ॒तये॑ । ताभिः॑ । प॒वित्र॑म् । आ । अ॒स॒दः॒ ॥याः । ते । धाराः । मधुश्चुतः । असृग्रम् । इन्दो इति । ऊतये । ताभिः । पवित्रम् । आ । असदः ॥yāḥ | te | dhārāḥ | madhu-ścutaḥ | asṛgram | indo iti | ūtaye | tābhiḥ | pavitram | ā | asadaḥ