Sukta 9.62
शुभ्रमन्धो देववातमप्सु धूतो नृभिः सुतः । स्वदन्ति गावः पयोभिः ॥
शु॒भ्रमन्धो॑ दे॒ववा॑तम॒प्सु धू॒तो नृभि॑: सु॒तः । स्वद॑न्ति॒ गाव॒: पयो॑भिः ॥
śúbhram ándho devávātam apsú dhūtó nṛ́bhis sutáḥ | svádanti gā́vaḥ páyobhiḥ ||
The bright essence, breathed by the gods, pressed by men and cleansed in the waters—this Soma: the rays of illumination taste it with their streams of milk, finding in it the sweetness of nourished light.
शु॒भ्रम् । अन्धः॑ । दे॒वऽवा॑तम् । अ॒प्ऽसु । धू॒तः । नृऽभिः॑ । सु॒तः । स्वद॑न्ति । गावः॑ । पयः॑ऽभिः ॥शुभ्रम् । अन्धः । देववातम् । अप्सु । धूतः । नृभिः । सुतः । स्वदन्ति । गावः । पयःभिः ॥śubhram | andhaḥ | deva-vātam | ap-su | dhūtaḥ | nṛ-bhiḥ | sutaḥ | svadanti | gāvaḥ | payaḥ-bhiḥ