Sukta 9.62
असाव्यंशुर्मदायाप्सु दक्षो गिरिष्ठाः । श्येनो न योनिमासदत् ॥
असा॑व्यं॒शुर्मदा॑या॒प्सु दक्षो॑ गिरि॒ष्ठाः । श्ये॒नो न योनि॒मास॑दत् ॥
asā́vy aṃśúr mādā́yā́psu dákṣo giriṣṭhā́ḥ | śyénो ná yónim ā́sadat ||
The ray (aṃśu) has been pressed out for ecstasy; in the waters, the skilled power, mountain-born, comes to its home—like a falcon settling into its nest.
असा॑वि । अं॒शुः । मदा॑य । अ॒प्ऽसु । दक्षः॑ । गि॒रि॒ऽस्थाः । श्ये॒नः । न । योनि॑म् । आ । अ॒स॒द॒त् ॥असावि । अंशुः । मदाय । अप्सु । दक्षः । गिरिस्थाः । श्येनः । न । योनिम् । आ । असदत् ॥asāvi | aṃśuḥ | madāya | ap-su | dakṣaḥ | giri-sthāḥ | śyenaḥ | na | yonim | ā | asadat