Sukta 9.62
कृण्वन्तो वरिवो गवेऽभ्यर्षन्ति सुष्टुतिम् । इळामस्मभ्यं संयतम् ॥
कृ॒ण्वन्तो॒ वरि॑वो॒ गवे॒ऽभ्य॑र्षन्ति सुष्टु॒तिम् । इळा॑म॒स्मभ्यं॑ सं॒यत॑म् ॥
kṛṇvánto várīvo gáve ’bhy àrṣanti suṣṭutím | íḷām asmábhyaṃ saṃyátam ||
Creating wide room for the rays of illumination, they flow forth towards the well-made hymn; they bring to us the ordered abundance of iḷā—nourishment and right inspiration gathered into unity.
कृ॒ण्वन्तः॑ । वरि॑वः । गवे॑ । अ॒भि । अ॒र्ष॒न्ति॒ । सु॒ऽस्तु॒तिम् । इळा॑म् । अ॒स्मभ्य॑म् । स॒म्ऽयत॑म् ॥कृण्वन्तः । वरिवः । गवे । अभि । अर्षन्ति । सुस्तुतिम् । इळाम् । अस्मभ्यम् । सम्यतम् ॥kṛṇvantaḥ | varivaḥ | gave | abhi | arṣanti | su-stutim | iḷām | asmabhyam | sam-yatam