Sukta 9.62
विघ्नन्तो दुरिता पुरु सुगा तोकाय वाजिनः । तना कृण्वन्तो अर्वते ॥
वि॒घ्नन्तो॑ दुरि॒ता पु॒रु सु॒गा तो॒काय॑ वा॒जिन॑: । तना॑ कृ॒ण्वन्तो॒ अर्व॑ते ॥
vighnánto duritā́ purú sugā́ tokā́ya vājínaḥ | tánā kṛṇvánto árvate ||
Breaking the difficult passages and the wrong movements, these bringers of plenitude make many good paths for the child of the soul; they build the continuum of progress for the steed of the journeying force.
वि॒ऽघ्नन्तः॑ । दुः॒ऽइ॒ता । पु॒रु । सु॒ऽगा । तो॒काय॑ । वा॒जिनः॑ । तना॑ । कृ॒ण्वन्तः॑ । अर्व॑ते ॥विघ्नन्तः । दुःइता । पुरु । सुगा । तोकाय । वाजिनः । तना । कृण्वन्तः । अर्वते ॥vi-ghnantaḥ | duḥ-itā | puru | su-gā | tokāya | vājinaḥ | tanā | kṛṇvantaḥ | arvate