Sukta 9.62
त्वं समुद्रिया अपोऽग्रियो वाच ईरयन् । पवस्व विश्वमेजय ॥
त्वं स॑मु॒द्रिया॑ अ॒पो॑ऽग्रि॒यो वाच॑ ई॒रय॑न् । पव॑स्व विश्वमेजय ॥
tváṃ samudriyā́ apó ’griyó vā́ca ī́rayan | pávasva víśvam-ejaya ||
You, foremost, stirring the oceanic waters, set the Word in motion; purify yourself and make the whole being tremble awake.
त्वम् । स॒मु॒द्रियाः॑ । अ॒पः । अ॒ग्रि॒यः । वाचः॑ । ई॒रय॑न् । पव॑स्व । वि॒श्व॒म्ऽए॒ज॒य॒ ॥त्वम् । समुद्रियाः । अपः । अग्रियः । वाचः । ईरयन् । पवस्व । विश्वम्एजय ॥tvam | samudriyāḥ | apaḥ | agriyaḥ | vācaḥ | īrayan | pavasva | viśvam-ejaya