Sukta 9.62
पवस्व वाचो अग्रियः सोम चित्राभिरूतिभिः । अभि विश्वानि काव्या ॥
पव॑स्व वा॒चो अ॑ग्रि॒यः सोम॑ चि॒त्राभि॑रू॒तिभि॑: । अ॒भि विश्वा॑नि॒ काव्या॑ ॥
pávasva vācó agriyáḥ sóma citrā́bhir ūtíbhiḥ | abhí víśvāni kā́vyā ||
Purify yourself, O Soma, as the foremost of inspired speech; with your many-colored help-powers press upon and awaken all the poet-secrets within.
पव॑स्व । वा॒चः । अ॒ग्रि॒यः । सोम॑ । चि॒त्राभिः॑ । ऊ॒तिऽभिः॑ । अ॒भि । विश्वा॑नि । काव्या॑ ॥पवस्व । वाचः । अग्रियः । सोम । चित्राभिः । ऊतिभिः । अभि । विश्वानि । काव्या ॥pavasva | vācaḥ | agniyaḥ | soma | citrābhiḥ | ūti-bhiḥ | abhi | viśvāni | kāvyā