Sukta 9.62
एते सोमा असृक्षत गृणानाः श्रवसे महे । मदिन्तमस्य धारया ॥
ए॒ते सोमा॑ असृक्षत गृणा॒नाः श्रव॑से म॒हे । म॒दिन्त॑मस्य॒ धार॑या ॥
eté sómā asṛkṣata gṛṇānā́ḥ śrávase mahé | mádintamasya dhā́rayā ||
These Soma-streams have been released; praised, they move toward the great glory, in the most intoxicating current of delight.
ए॒ते । सोमाः॑ । अ॒सृ॒क्ष॒त॒ । गृ॒णा॒नाः । श्रव॑से । म॒हे । म॒दिन्ऽत॑मस्य । धार॑या ॥एते । सोमाः । असृक्षत । गृणानाः । श्रवसे । महे । मदिन्तमस्य । धारया ॥ete | somāḥ | asṛkṣata | gṛṇānāḥ | śravase | mahe | madin-tamasya | dhārayā