Sukta 9.62
एते असृग्रमिन्दवस्तिरः पवित्रमाशवः । विश्वान्यभि सौभगा ॥
ए॒ते अ॑सृग्र॒मिन्द॑वस्ति॒रः प॒वित्र॑मा॒शव॑: । विश्वा॑न्य॒भि सौभ॑गा ॥
eté ásṛgram índavas tiráḥ pavítram āśávaḥ | víśvāny abhí sáubhagā ||
These swift drops of Indu (Soma) have been released; they pass through the purifier, moving towards all felicities—towards every form of good fortune of the being.
ए॒ते । अ॒सृ॒ग्र॒म् । इन्द॑वः । ति॒रः । प॒वित्र॑म् । आ॒शवः॑ । विश्वा॑नि । अ॒भि । सौभ॑गा ॥एते । असृग्रम् । इन्दवः । तिरः । पवित्रम् । आशवः । विश्वानि । अभि । सौभगा ॥ete | asṛgram | indavaḥ | tiraḥ | pavitram | āśavaḥ | viśvāni | abhi | saubhagā