Sukta 9.62
आविशन्कलशं सुतो विश्वा अर्षन्नभि श्रियः । शूरो न गोषु तिष्ठति ॥
आ॒वि॒शन्क॒लशं॑ सु॒तो विश्वा॒ अर्ष॑न्न॒भि श्रिय॑: । शूरो॒ न गोषु॑ तिष्ठति ॥
ā-viśán kalaśáṃ sutó víśvā arṣann abhí śríyaḥ | śū́ro ná góṣu tiṣṭhati ||
Entering the jar, pressed Soma has flowed toward all splendors; like a hero among the rays of light, he stands firm—established in the luminous herds of knowledge.
आ॒ऽवि॒शन् । क॒लश॑म् । सु॒तः । विश्वा॑ । अर्ष॑न् । अ॒भि । श्रियः॑ । शूरः॑ । न । गोषु॑ । ति॒ष्ठ॒ति॒ ॥आविशन् । कलशम् । सुतः । विश्वा । अर्षन् । अभि । श्रियः । शूरः । न । गोषु । तिष्ठति ॥ā-viśan | kalaśam | sutaḥ | viśvā | arṣan | abhi | śriyaḥ | śūraḥ | na | goṣu | tiṣṭhati