Sukta 9.62
गिरा जात इह स्तुत इन्दुरिन्द्राय धीयते । विर्योना वसताविव ॥
गि॒रा जा॒त इ॒ह स्तु॒त इन्दु॒रिन्द्रा॑य धीयते । विर्योना॑ वस॒तावि॑व ॥
girā́ jātá ihá stutá índur índrāya dhīyate | vír yonā́ vasatā́-iva ||
Born of the inspired word and praised here, the Soma-drop is set within for Indra; like a hero in his dwelling, he rests in his womb—securely established in the seat of the offering and the heart.
गि॒रा । जा॒तः । इ॒ह । स्तु॒तः । इन्दुः॑ । इन्द्रा॑य । धी॒य॒ते॒ । विः । योना॑ । व॒स॒तौऽइ॑व ॥गिरा । जातः । इह । स्तुतः । इन्दुः । इन्द्राय । धीयते । विः । योना । वसतौइव ॥girā | jātaḥ | iha | stutaḥ | induḥ | indrāya | dhīyate | viḥ | yonā | vasatau-iva