Sukta 9.62
एष स्य परि षिच्यते मर्मृज्यमान आयुभिः । उरुगायः कविक्रतुः ॥
ए॒ष स्य परि॑ षिच्यते मर्मृ॒ज्यमा॑न आ॒युभि॑: । उ॒रु॒गा॒यः क॒विक्र॑तुः ॥
eṣá syá pári sicyate marmṛ́jyamāna āyú-bhiḥ | uru-gāyáḥ kaví-kratuḥ ||
This one is poured all around, being cleansed by the life-powers; wide in his chant of manifestation, with the seer’s will—Soma shapes the inner rite into spacious song and effective insight.
ए॒षः । स्यः । परि॑ । सि॒च्य॒ते॒ । म॒र्मृ॒ज्यमा॑नः । आ॒युऽभिः॑ । उ॒रु॒ऽगा॒यः । क॒विऽक्र॑तुः ॥एषः । स्यः । परि । सिच्यते । मर्मृज्यमानः । आयुभिः । उरुगायः । कविक्रतुः ॥eṣaḥ | syaḥ | pari | sicyate | marmṛjyamānaḥ | āyu-bhiḥ | uru-gāyaḥ | kavi-kratuḥ