Sukta 9.61
समिन्द्रेणोत वायुना सुत एति पवित्र आ । सं सूर्यस्य रश्मिभिः ॥
समिन्द्रे॑णो॒त वा॒युना॑ सु॒त ए॑ति प॒वित्र॒ आ । सं सूर्य॑स्य र॒श्मिभि॑: ॥
sám índreṇota vāyúnā sutá eti pavítra ā́ | sáṃ sū́ryasya raśmíbhīḥ ||
Pressed out, he goes to the filter in union with Indra and with Vāyu; and he unites with the rays of Sūrya—so delight becomes force, breath, and illumination together.
सम् । इन्द्रे॑ण । उ॒त । वा॒युना॑ । सु॒तः । ए॒ति॒ । प॒वित्रे॑ । आ । सम् । सूर्य॑स्य । र॒श्मिऽभिः॑ ॥सम् । इन्द्रेण । उत । वायुना । सुतः । एति । पवित्रे । आ । सम् । सूर्यस्य । रश्मिभिः ॥sam | indreṇa | uta | vāyunā | sutaḥ | eti | pavitre | ā | sam | sūryasya | raśmi-bhiḥ