Sukta 9.61
स नः पुनान आ भर रयिं वीरवतीमिषम् । ईशानः सोम विश्वतः ॥
स न॑: पुना॒न आ भ॑र र॒यिं वी॒रव॑ती॒मिष॑म् । ईशा॑नः सोम वि॒श्वत॑: ॥
sá naḥ punāná ā́ bhara rayíṃ vī́ravatīm íṣam | ī́śānaḥ soma viśvátas ||
Purifying yourself, bring to us the plenitude (rayi) and the increase rich in heroic power; O Soma, master from every side, govern and fill our whole being.
सः । नः॒ । पु॒ना॒नः । आ । भ॒र॒ । र॒यिम् । वी॒रऽव॑तीम् । इष॑म् । ईशा॑नः । सो॒म॒ । वि॒श्वतः॑ ॥सः । नः । पुनानः । आ । भर । रयिम् । वीरवतीम् । इषम् । ईशानः । सोम । विश्वतः ॥saḥ | naḥ | punānaḥ | ā | bhara | rayim | vīra-vatīm | iṣam | īśānaḥ | soma | viśvataḥ