Sukta 9.61
ये ते पवित्रमूर्मयोऽभिक्षरन्ति धारया । तेभिर्नः सोम मृळय ॥
ये ते॑ प॒वित्र॑मू॒र्मयो॑ऽभि॒क्षर॑न्ति॒ धार॑या । तेभि॑र्नः सोम मृळय ॥
yé te pavítram ū́rmayo ’bhíkṣaranti dhā́rayā | tébhir naḥ soma mṛḷaya ||
Those waves of yours that stream through the filter in a steady current—by them, O Soma, bring us peace and glad release; heal the being with your purifying flow.
ये । ते॒ । प॒वित्र॑म् । ऊ॒र्मयः॑ । अ॒भि॒ऽक्षर॑न्ति । धार॑या । तेभिः॑ । नः॒ । सो॒म॒ । मृ॒ळ॒य॒ ॥ये । ते । पवित्रम् । ऊर्मयः । अभिक्षरन्ति । धारया । तेभिः । नः । सोम । मृळय ॥ye | te | pavitram | ūrmayaḥ | abhi-kṣaranti | dhārayā | tebhiḥ | naḥ | soma | mṛḷaya