Sukta 9.61
पवमानस्य ते वयं पवित्रमभ्युन्दतः । सखित्वमा वृणीमहे ॥
पव॑मानस्य ते व॒यं प॒वित्र॑मभ्युन्द॒तः । स॒खि॒त्वमा वृ॑णीमहे ॥
pavamā́nasya te vayáṃ pavítram abhyúndataḥ | sakhitvám ā́ vṛṇīmahe ||
Of you, the self-purifying One, as you pour yourself upon the filter, we choose for ourselves the state of friendship—an intimate alliance with your clarifying delight.
पव॑मानस्य । ते॒ । व॒यम् । प॒वित्र॑म् । अ॒भि॒ऽउ॒न्द॒तः । स॒खि॒ऽत्वम् । आ । वृ॒णी॒म॒ह्चे ॥पवमानस्य । ते । वयम् । पवित्रम् । अभिउन्दतः । सखित्वम् । आ । वृणीमह्चे ॥pavamānasya | te | vayam | pavitram | abhi-undataḥ | sakhi-tvam | ā | vṛṇīmahe