Sukta 9.61
परि णो अश्वमश्वविद्गोमदिन्दो हिरण्यवत् । क्षरा सहस्रिणीरिषः ॥
परि॑ णो॒ अश्व॑मश्व॒विद्गोम॑दिन्दो॒ हिर॑ण्यवत् । क्षरा॑ सह॒स्रिणी॒रिष॑: ॥
pári no áśvam aśvavíd gómad indo híraṇyavat | kṣárā sahasríṇīr íṣaḥ ||
Flow around us, O Indu, bringing the force that wins the steed (swift energy), rich in luminous rays (cows) and golden light; pour out the thousandfold impulsions of increase.
परि॑ । नः॒ । अश्व॑म् । अ॒श्व॒ऽवित् । गोऽम॑त् । इ॒न्दो॒ इति॑ । हिर॑ण्यऽवत् । क्षरा॑ । स॒ह॒स्रिणीः । इषः॑ ॥परि । नः । अश्वम् । अश्ववित् । गोमत् । इन्दो इति । हिरण्यवत् । क्षरा । सहस्रिणीः । इषः ॥pari | naḥ | aśvam | aśva-vit | go-mat | indo iti | hiraṇya-vat | kṣarā | sahasriṇīḥ | iṣaḥ