Sukta 9.61
पुरः सद्य इत्थाधिये दिवोदासाय शम्बरम् । अध त्यं तुर्वशं यदुम् ॥
पुर॑: स॒द्य इ॒त्थाधि॑ये॒ दिवो॑दासाय॒ शम्ब॑रम् । अध॒ त्यं तु॒र्वशं॒ यदु॑म् ॥
púraḥ sadyá ítthādhiye divodāsā́ya śámbaram | ádha tyáṃ turváśaṃ yáduṃ ||
At once he breaks open the obstructing strongholds for the right-minded Divodāsa—Shambara; and then he sets free that Turvaśa and Yadu (the powers held back), releasing the imprisoned movements of the being.
पुरः॑ । स॒द्यः । इ॒थाऽधि॑ये । दिवः॑ऽदासाय । शम्ब॑रम् । अध॑ । त्यम् । तु॒र्वश॑म् । यदु॑म् ॥पुरः । सद्यः । इथाधिये । दिवःदासाय । शम्बरम् । अध । त्यम् । तुर्वशम् । यदुम् ॥puraḥ | sadyaḥ | ithādhiye | divaḥ-dāsāya | śambaram | adha | tyam | turvaśam | yadum