Sukta 9.61
अस्य ते सख्ये वयं तवेन्दो द्युम्न उत्तमे । सासह्याम पृतन्यतः ॥
अस्य॑ ते स॒ख्ये व॒यं तवे॑न्दो द्यु॒म्न उ॑त्त॒मे । सा॒स॒ह्याम॑ पृतन्य॒तः ॥
ásya te sakhyé vayáṃ tavéndo dyumná uttamé | sāsahyā́ma pṛtanyatáḥ ||
In this thy friendship, O Indu, in thy highest luminous might, may we prevail over those who wage battle—held by the allyship of the shining Soma, we overcome the powers of division.
अस्य॑ । ते॒ । स॒ख्ये । व॒यम् । तव॑ । इ॒न्दो॒ इति॑ । द्यु॒म्ने । उ॒त्ऽत॒मे । स॒स॒ह्याम॑ । पृ॒त॒न्य॒तः ॥अस्य । ते । सख्ये । वयम् । तव । इन्दो इति । द्युम्ने । उत्तमे । ससह्याम । पृतन्यतः ॥asya | te | sakhye | vayam | tava | indo iti | dyumne | ut-tame | sasahyāma | pṛtanyataḥ