Sukta 9.61
पवस्वेन्दो वृषा सुतः कृधी नो यशसो जने । विश्वा अप द्विषो जहि ॥
पव॑स्वेन्दो॒ वृषा॑ सु॒तः कृ॒धी नो॑ य॒शसो॒ जने॑ । विश्वा॒ अप॒ द्विषो॑ जहि ॥
pávasv endo vṛ́ṣā sutáḥ kṛdhí no yaśáso jánе | víśvā apá dvíṣo jahi ||
Purify thyself, O Indu, a strong bull pressed out; make us a people of glory. Smite away all who hate—drive out every force of inner denial that opposes the growth of truth.
पव॑स्व । इ॒न्दो॒ इति॑ । वृषा॑ । सु॒तः । कृ॒धि । नः॒ । य॒शसः॑ । जने॑ । विश्वाः॑ । अप॑ । द्विषः॑ । ज॒हि॒ ॥पवस्व । इन्दो इति । वृषा । सुतः । कृधि । नः । यशसः । जने । विश्वाः । अप । द्विषः । जहि ॥pavasva | indo iti | vṛṣā | sutaḥ | kṛdhi | naḥ | yaśasaḥ | jane | viśvāḥ | apa | dviṣaḥ | jahi