Sukta 9.58
उस्रा वेद वसूनां मर्तस्य देव्यवसः । तरत्स मन्दी धावति ॥
उ॒स्रा वे॑द॒ वसू॑नां॒ मर्त॑स्य दे॒व्यव॑सः । तर॒त्स म॒न्दी धा॑वति ॥
usrā́ veda vásūnāṃ mártasya devyávasaḥ | tárat sá mandī́ dhāvati ||
The radiant one knows the riches for the mortal who seeks the divine help; overpassing and overcoming, the exhilarated stream runs.
उ॒स्रा । वे॒द॒ । वसू॑नाम् । मर्त॑स्य । दे॒वी । अव॑सः । तर॑त् । सः । म॒न्दी । धा॒व॒ति॒ ॥उस्रा । वेद । वसूनाम् । मर्तस्य । देवी । अवसः । तरत् । सः । मन्दी । धावति ॥usrā | veda | vasūnām | martasya | devī | avasaḥ | tarat | saḥ | mandī | dhāvati