Sukta 9.58
तरत्स मन्दी धावति धारा सुतस्यान्धसः । तरत्स मन्दी धावति ॥
तर॒त्स म॒न्दी धा॑वति॒ धारा॑ सु॒तस्यान्ध॑सः । तर॒त्स म॒न्दी धा॑वति ॥
tárat sá mandī́ dhāvati dhā́rā sutásyā́ndhasaḥ | tárat sá mandī́ dhāvati ||
Overpassing and overcoming, the exhilarated stream runs—this current of the pressed nectar; overpassing and overcoming, it runs.
तर॑त् । सः । म॒न्दी । धा॒व॒ति॒ । धारा॑ । सु॒तस्य॑ । अन्ध॑सः । तर॑त् । सः । म॒न्दी । धा॒व॒ति॒ ॥तरत् । सः । मन्दी । धावति । धारा । सुतस्य । अन्धसः । तरत् । सः । मन्दी । धावति ॥tarat | saḥ | mandī | dhāvati | dhārā | sutasya | andhasaḥ | tarat | saḥ | mandī | dhāvati